मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् ६

संहिता

आ यः प॒प्रौ भा॒नुना॒ रोद॑सी उ॒भे धू॒मेन॑ धावते दि॒वि ।
ति॒रस्तमो॑ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा अ॑रु॒षो वृषा॑ ॥

पदपाठः

आ । यः । प॒प्रौ । भा॒नुना॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । धू॒मेन॑ । धा॒व॒ते॒ । दि॒वि ।
ति॒रः । तमः॑ । द॒दृ॒शे॒ । ऊर्म्या॑सु । आ । श्या॒वासु॑ । अ॒रु॒षः । वृषा॑ । आ । श्या॒वाः । अ॒रु॒षः । वृषा॑ ॥

सायणभाष्यम्

योग्निः भानुनादीप्त्याउभेरोदसीद्यावापृथिव्यौआपप्रौ आपूरयति सः धूमेनदिविअन्तरिक्षेधावतेगच्छति धूमोहिमेघात्मनापरिणतः सन् अन्तरिक्षेगछति कार्यकारणयोरभेदविवक्षया तद्गमनमग्नावुपचर्यते अपिचायंअरुषः आरोचमानः वृषावर्षिताकामानां एवंगुणको- ग्निःश्यावासुश्याववर्णासुकृष्णासुऊर्म्यासु रात्रिनामैतत् निशासुतमोंधकारंतिरः तिरस्कृत्यआसमंतात् ददृशे दृश्यतेश्यावाः श्याववर्णा- रात्रीश्च आतिष्ठति अरुषोवृषेतिपुनरुक्तिरादरार्थापदपूरणार्थावा ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः