मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् ७

संहिता

बृ॒हद्भि॑रग्ने अ॒र्चिभि॑ः शु॒क्रेण॑ देव शो॒चिषा॑ ।
भ॒रद्वा॑जे समिधा॒नो य॑विष्ठ्य रे॒वन्न॑ः शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥

पदपाठः

बृ॒हत्ऽभिः॑ । अ॒ग्ने॒ । अ॒र्चिऽभिः॑ । शु॒क्रेण॑ । दे॒व॒ । शो॒चिषा॑ ।
भ॒रत्ऽवा॑जे । स॒म्ऽइ॒धा॒नः । य॒वि॒ष्ठ्य॒ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥

सायणभाष्यम्

हेदेव दानादिगुणयुक्त यविष्ठ्य युवतम शुक्र दीप्ताग्ने शुक्रेण निर्मलेनशोचिषातेजसा भरद्वाजेअस्मद्भातरि समिधानः समिध्यमानस्त्वं बृहद्भिर्महद्भिरर्चिभिः तेजोभिः नोस्मदर्थं रेवत् धनयुक्तंयथाभवतितथादीदिहि दीप्यस्व तथापावक हेशोधकाग्ने द्युमत् द्योतमानेनच- युक्तं यथाभवतितथादीदिहि दीप्यस्व ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः