मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् ८

संहिता

विश्वा॑सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणाम् ।
श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं॑ श॒तं हिमा॑ः स्तो॒तृभ्यो॒ ये च॒ दद॑ति ॥

पदपाठः

विश्वा॑साम् । गृ॒हऽप॑तिः । वि॒शाम् । असि॑ । त्वम् । अ॒ग्ने॒ । मानु॑षीणाम् ।
श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ॒ । पा॒हि॒ । अंह॑सः । स॒म्ऽए॒द्धार॑म् । श॒तम् । हिमाः॑ । स्तो॒तृऽभ्यः॑ । ये । च॒ । दद॑ति ॥

सायणभाष्यम्

हेअग्ने त्वंमानुषीणांमनोरपत्यभूतानां विश्वासांसर्वासांविशांप्रजानांगृहपतिरसि गृहस्वामीभवसि हेयविष्ठ युवतमाग्ने अतस्त्वंशतं- हिमाः शतंहेमन्तान् संवत्सरान् समेद्धारंत्वांसम्यगिद्धं कृतवन्तंमांशतंशतेनशतसंख्याकैः पूर्भिःपालकैः अंहसः पापात् आहन्तुः शत्रोर्वा- पाहिरक्ष येचस्तोतृभ्योददति धनंतवसमिन्धनस्यकर्तरिप्रयच्छन्ति तांश्चपाहि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः