मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् १०

संहिता

पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः ।
अग्ने॒ हेळां॑सि॒ दैव्या॑ युयोधि॒ नोऽदे॑वानि॒ ह्वरां॑सि च ॥

पदपाठः

पर्षि॑ । तो॒कम् । तन॑यम् । प॒र्तृऽभिः॑ । त्वम् । अद॑ब्धैः । अप्र॑युत्वऽभिः ।
अग्ने॑ । हेलां॑सि । दैव्या॑ । यु॒यो॒धि॒ । नः॒ । अदे॑वानि । ह्वरां॑सि । च॒ ॥

सायणभाष्यम्

हेअग्ने त्वं अदब्धैःकेनाप्यहिंसितैः अप्रयुत्वभिः यौतिरत्रपृथग्भावार्थः अपृथग्भूतैः संहतैः पर्तृभिः पालनसाधनैः तोकंपुत्रंतनयंपौत्रं- चपर्षिपालय दैव्यादेवसंबन्धीनिच हेळांसिक्रोधान्नोस्मत्तोयुयोधि पृथक्कुरु अदेवानि मनुष्यसंबन्धीनिच ह्वरांसिहिंसनानिच अस्मत्तः पृथक्कुरु ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः