मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् १३

संहिता

भ॒रद्वा॑जा॒याव॑ धुक्षत द्वि॒ता ।
धे॒नुं च॑ वि॒श्वदो॑हस॒मिषं॑ च वि॒श्वभो॑जसम् ॥

पदपाठः

भ॒रत्ऽवा॑जाय । अव॑ । धु॒क्ष॒त॒ । द्वि॒ता ।
धे॒नुम् । च॒ । वि॒श्वऽदो॑हसम् । इष॑म् । च॒ । वि॒श्वऽभो॑जसम् ॥

सायणभाष्यम्

हेमरुतः भरद्वाजायास्मद्भात्रेद्विताद्वितयंअवधुक्षत दत्त किंतद्द्वितयं धेनुंचगांच इषंचअन्नंच कीदृशींधेनुं विश्वदोहसं विश्वस्यव्याप्तस्य- बहुलस्यदोग्ध्रीं कीदृशमन्नं विश्वभोजसंसर्वेषांभोगपर्याप्तं ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः