मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् १४

संहिता

तं व॒ इन्द्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिन॑म् ।
अ॒र्य॒मणं॒ न म॒न्द्रं सृ॒प्रभो॑जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे॑ ॥

पदपाठः

तम् । वः॒ । इन्द्र॑म् । न । सु॒ऽक्रतु॑म् । वरु॑णम्ऽइव । मा॒यिन॑म् ।
अ॒र्य॒मण॑म् । न । म॒न्द्रम् । सृ॒प्रऽभो॑जसम् । विष्णु॑म् । न । स्तु॒षे॒ । आ॒ऽदिशे॑ ॥

सायणभाष्यम्

हेमरुद्गण तंतादृशंवःत्वांस्तुषेस्तौमि किमर्थंआदिशे आदेशनाय धनानामतिसर्जनाय प्रदानाय कीदृशंत्वां इन्द्रंनइन्द्रमिव सुक्रतुंसुक- र्माणं वरुणमिवमायिनं मायावन्तंप्रज्ञावन्तंअर्यमणंअर्यमणमिव मन्द्रंस्तुत्यं विष्णुंन विष्णुमिवसृप्रभॊजसं प्रसृप्तधनं यदात्वस्यालिंगो- क्तदेवतास्तदानींनेवशब्दौचशब्दार्थेद्रष्टव्यौ ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः