मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् १८

संहिता

दृते॑रिव तेऽवृ॒कम॑स्तु स॒ख्यम् ।
अच्छि॑द्रस्य दध॒न्वत॒ः सुपू॑र्णस्य दध॒न्वतः॑ ॥

पदपाठः

दृतेः॑ऽइव । ते॒ । अ॒वृ॒कम् । अ॒स्तु॒ । स॒ख्यम् ।
अच्छि॑द्रस्य । द॒ध॒न्ऽवतः॑ । सुऽपू॑र्णस्य । द॒ध॒न्ऽवतः॑ ॥

सायणभाष्यम्

हेपूषन् तेतवसख्यंसखित्वंअवृकंबाधकरहितंसर्वदैकरूपेणवर्तमानं अस्माकमस्तुसर्वदाभवतु दृतेरिवयथादृतेस्त्वदीयंसख्यंअविच्छिन्नं- तद्वत् कीदृशोदृतिः अच्छिद्रस्यछिद्ररहितस्यसंश्लिष्टस्यदधन्वतोदधिमतः सुपूर्णस्यदध्नासुष्ठुपुनर्दधन्वतइतिधन्वोधिकत्वद्योतनार्थः ईदृशो- दृतिःसर्वदापूष्णोरथेवर्तते सइववयमपितवसखायोभवेमेत्यृषिराशास्ते ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः