मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् १९

संहिता

प॒रो हि मर्त्यै॒रसि॑ स॒मो दे॒वैरु॒त श्रि॒या ।
अ॒भि ख्य॑ः पूष॒न्पृत॑नासु न॒स्त्वमवा॑ नू॒नं यथा॑ पु॒रा ॥

पदपाठः

प॒रः । हि । मर्त्यैः॑ । असि॑ । स॒मः । दे॒वैः । उ॒त । श्रि॒या ।
अ॒भि । ख्यः॒ । पू॒ष॒न् । पृत॑नासु । नः॒ । त्वम् । अव॑ । नू॒नम् । यथा॑ । पु॒रा ॥

सायणभाष्यम्

हेपूषन् मत्यैर्मर्त्येभ्योमनुष्येभ्यः परः परस्तात् स्थितोसि श्रियासंपदादेवैरुतसर्वैःदेवैश्चसमः समानोसि अतस्त्वंपृतनासुसंग्रामेषुनो- स्मानभिख्यः अभिपश्य अनुग्रहदृष्ट्याविलोकय यथापुरायेनप्रकारेणपूर्वकालीनान्पुरुषान् ररक्षिथ एवंनूनमद्यइदानींअवअस्मान् रक्ष हीतिपूरणः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः