मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् २०

संहिता

वा॒मी वा॒मस्य॑ धूतय॒ः प्रणी॑तिरस्तु सू॒नृता॑ ।
दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः ॥

पदपाठः

वा॒मी । वा॒मस्य॑ । धू॒त॒यः॒ । प्रऽनी॑तिः । अ॒स्तु॒ । सू॒नृता॑ ।
दे॒वस्य॑ । वा॒ । म॒रु॒तः॒ । मर्त्य॑स्य । वा॒ । ई॒जा॒नस्य॑ । प्र॒ऽय॒ज्य॒वः॒ ॥

सायणभाष्यम्

हेधूतयः कंपयितारः प्रयज्यवः प्रकर्षेणयष्टव्यामरुतः सासूनृताप्रियसत्यात्मिकामाध्यमिकायुष्मदीयावाक् प्रणीतिरस्तु अस्मदर्थं- धनानांप्रणेत्रीभवतु देवस्यवामर्त्यस्यमनुष्यस्यवाईजानस्य इष्टवतः उभयविधस्यपुरुषस्यवामीप्रशस्तायावाक् वामस्यवननीयस्यधन- स्यप्रणीतिः प्रणेत्री सासूनृतेत्यन्वयः प्रणीतिरस्तुअस्मदर्थं ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः