मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् २१

संहिता

स॒द्यश्चि॒द्यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्य॑ः ।
त्वे॒षं शवो॑ दधिरे॒ नाम॑ य॒ज्ञियं॑ म॒रुतो॑ वृत्र॒हं शवो॒ ज्येष्ठं॑ वृत्र॒हं शवः॑ ॥

पदपाठः

स॒द्यः । चि॒त् । यस्य॑ । च॒र्कृ॒तिः । परि॑ । द्याम् । दे॒वः । न । एति॑ । सूर्यः॑ ।
त्वे॒षम् । शवः॑ । द॒धि॒रे॒ । नाम॑ । य॒ज्ञिय॑म् । म॒रुतः॑ । वृत्र॒ऽहम् । शवः॑ । ज्येष्ठ॑म् । वृत्र॒ऽहम् । शवः॑ ॥

सायणभाष्यम्

यस्यचमरुद्गणस्यचर्कृतिः कर्मसद्यश्चित् सद्यएव द्यांपर्येति परिगच्छति दिव्यन्तरिक्षेपरितोवर्तते देवोन देवोद्योतमानःसूर्यइव तादृशागणात्मकामरुतः त्वेषंदीप्तंनामशत्रूणांनमयितृ यज्ञियंयज्ञार्हंशवोबलं दधिरेअधारयन् तच्च शवोबलंवृत्रहंवृत्रादेरसुरस्यहन्तु भवति तच्चवृत्रहंशवः ज्येष्ठंसर्वेभ्यः प्रशस्ततमंभवति ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः