मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४९, ऋक् १

संहिता

स्तु॒षे जनं॑ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यन्ता॑ ।
त आ ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निः ॥

पदपाठः

स्तु॒षे । जन॑म् । सु॒ऽव्र॒तम् । नव्य॑सीभिः । गीः॒ऽभिः । मि॒त्रावरु॑णा । सु॒म्न॒ऽयन्ता॑ ।
ते । आ । ग॒म॒न्तु॒ । ते । इ॒ह । श्रु॒व॒न्तु॒ । सु॒ऽक्ष॒त्रासः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः ॥

सायणभाष्यम्

सुव्रतं सुकर्माणंजनंदैव्यजनंदेवसंघंनव्यसीभिः नवतराभिर्गीर्भिःस्तुतिभिः स्तुषे अहंस्तुवे तथा मित्रावरुणामित्रः प्रमीयतेस्त्रायकः वरुणः पापानांनिवारयिता एतावपिदेवौस्तौमि कीदृशौ सुम्नयन्तासुम्नंसुखंस्तोतॄणामिच्छन्तौ सुक्षत्रासः शोभनबलास्तेवरुणादयः सर्वे- देवाः इहास्मिन्यज्ञेआगमन्तु आगच्छन्तु तेतादृशाःश्रुवन्तु अस्मदीयाःस्तुतीःश्रृण्वन्तुच अत्रमित्रादीनांपरिगणनमुपलक्षणं सूक्तस्यसर्वस्य- देवताप्रतिपादकत्वात् अतएवपूर्वंजनमितिसामान्यनिर्देशः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः