मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४९, ऋक् २

संहिता

वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः ।
दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ॥

पदपाठः

वि॒शःऽवि॑शः । ईड्य॑म् । अ॒ध्व॒रेषु॑ । अदृ॑प्तऽक्रतुम् । अ॒र॒तिम् । यु॒व॒त्योः ।
दि॒वः । शिशु॑म् । सह॑सः । सू॒नुम् । अ॒ग्निम् । य॒ज्ञस्य॑ । के॒तुम् । अ॒रु॒षम् । यज॑ध्यै ॥

सायणभाष्यम्

विशोविशः सर्वस्याः प्रजायाः अध्वरेषुयज्ञेषुईड्यं ऋत्विग्भ्यःस्तुत्यं अदृप्तक्रतुंदर्परहितकर्माणंअमूढप्रज्ञंवा युवत्योर्द्यावापृथिव्योर- रतिमभिगन्तारंअर्यंस्वामिनंदिवोद्युलोकस्यशिशुंपुत्रं दिवस्परिप्रथमंजज्ञेअग्निरितिनिगमः । अथवादिवःस्तोतुःपुत्रभूतं तथापिनिगमोभ- वति त्वंपुत्रोभवसियस्तेविधदिति सहसोबलस्यसूनुंपुत्रंयज्ञस्ययागस्यकेतुंप्रज्ञापकं अरुषमारोचमानं एवंगुणकमग्निंयजध्यैयष्टुंस्तुषइत्य- नुषज्यते स्तुषेस्तुवे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः