मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४९, ऋक् ४

संहिता

प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा॑रं रथ॒प्राम् ।
द्यु॒तद्या॑मा नि॒युत॒ः पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥

पदपाठः

प्र । वा॒युम् । अच्छ॑ । बृ॒ह॒ती । म॒नी॒षा । बृ॒हत्ऽर॑यिम् । वि॒श्वऽवा॑रम् । र॒थ॒ऽप्राम् ।
द्यु॒तत्ऽया॑मा । नि॒ऽयुतः॑ । पत्य॑मानः । क॒विः । क॒विम् । इ॒य॒क्ष॒सि॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ॥

सायणभाष्यम्

बृहतीमहतीमनीषास्मदीयास्तुतिः वायुमच्छाभिमुख्येनप्रगच्छतु उपसर्गश्रुतेर्योग्यक्रियाध्याहारः कीदृशंवायुं बृहद्रयिंमहाधनं विश्व- वारं विश्वैर्वरणीयं संभजनीयंरथप्रां रथस्यात्मीयस्यप्रातारंपूरयितारं यद्वा स्तोतॄणांरथंधनैः पूरयितारं अथप्रत्यक्षस्तुतिः हेप्रयज्यो प्रक- र्षेणयष्टव्य वायो द्युतद्यामा प्रदीप्तयानः नियुतः आत्मीयरथयोज्याःवडवाःताःपत्यमानः अभिपतन् अभि गच्छान् यद्वा पत्यविरैश्वर्यकर्मा तासांवडवानामीश्वरः कविः क्रान्तदर्शी एवंभूतस्तंकविंमेधाविनं स्तोतारंहयक्षसि धनेनपृजय ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः