मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४९, ऋक् ५

संहिता

स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो रथो॑ वि॒रुक्मा॒न्मन॑सा युजा॒नः ।
येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥

पदपाठः

सः । मे॒ । वपुः॑ । छ॒द॒य॒त् । अ॒श्विनोः॑ । यः । रथः॑ । वि॒रुक्मा॑न् । मन॑सा । यु॒जा॒नः ।
येन॑ । न॒रा॒ । ना॒स॒त्या॒ । इ॒ष॒यध्यै॑ । व॒र्तिः । या॒थः । तन॑याय । त्मने॑ । च॒ ॥

सायणभाष्यम्

अश्विनोः स्वभूतः सरथः मेमदीयंवपुः शरीरंछदयत् छादयतु तेजसाआछादयतु योरथोविरुक्मान् विरोचनवान् विशेषेणदीप्यमानः मनसामनोव्यापारमात्रेणयुजानःअश्वैः संयुज्यमानोभवति हेनरानेतारौ हेनासत्यासत्यस्वभावौ सत्यनेतारौ नासिकाप्रभवौवा अश्विनौ येनरथेन वर्तिः स्तोतृगृहं तनयायपुत्रायत्मनेआत्मनेतत्पित्रेस्तोत्रेचइपयध्यै कामान् प्रापयितुंयाथः गच्छथः सरथइतिपूर्वत्रान्वयः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः