मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४९, ऋक् ६

संहिता

पर्ज॑न्यवाता वृषभा पृथि॒व्याः पुरी॑षाणि जिन्वत॒मप्या॑नि ।
सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वम् ॥

पदपाठः

पर्ज॑न्यवाता । वृ॒ष॒भा॒ । पृ॒थि॒व्याः । पुरी॑षाणि । जि॒न्व॒त॒म् । अप्या॑नि ।
सत्य॑ऽश्रुतः । क॒व॒यः॒ । यस्य॑ । गीः॒ऽभिः । जग॑तः । स्था॒तः॒ । जग॑त् । आ । कृ॒णु॒ध्व॒म् ॥

सायणभाष्यम्

हेपर्जन्यवाता पर्जन्यवायू वृषभाबृष्टेः कर्तारौपृथिव्याः अन्तरिक्षनामैतत् अन्तरिक्षात् आप्यनि आप्तव्यानिपुरीषाणिपूरकाण्युदकानि जिन्वतंप्रेरयतं उत्तरोर्धर्चोमारुतः हेसत्यश्रुतः सत्यस्यस्तोत्रस्यश्रोतारः कवयोमेधाविनोमरुतः यस्यास्तोतुःगीर्भिःस्तुतिभिःयूयंस्तुताभव- थ तस्य्स्तोतुःजगत्स्थावरजंगमात्मकंसर्वंप्राणिजातंआकृणुध्वं आभिमुख्येनकुरुत हेजगतः स्थातः गणाभिप्रायमेकवचनं स्थावरजंगमात्म- कस्यजगतोवस्थापकहेमरुद्गणेतियोज्यं ॥ ६ ॥ अन्वारंभणीयायांसारस्वतस्यहविषोयाज्यापावीरवीत्येषा सूत्रितंच—पावीरवीकन्याचित्रायुःपीपिवांसंसरस्वतइति । एकादशिने- सारस्वतेपशौएषैवपुरोडाशस्ययाज्या सूत्रितंच—पावीरवीक्याचित्रायुर्यस्तेस्तनः शशयोमयोभूरिति । आग्निमारुतेशस्त्रेप्येषा सूत्रितंच- राकामहमितिद्वेपावीरवीकन्याचित्रायुरिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः