मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४९, ऋक् ७

संहिता

पावी॑रवी क॒न्या॑ चि॒त्रायु॒ः सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् ।
ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा॑ दुरा॒धर्षं॑ गृण॒ते शर्म॑ यंसत् ॥

पदपाठः

पावी॑रवी । क॒न्या॑ । चि॒त्रऽआ॑युः । सर॑स्वती । वी॒रऽप॑त्नी । धिय॑म् । धा॒त् ।
ग्नाभिः॑ । अच्छि॑द्रम् । श॒र॒णम् । स॒ऽजोषाः॑ । दुः॒ऽआ॒धर्ष॑म् । गृ॒ण॒ते । शर्म॑ । यं॒स॒त् ॥

सायणभाष्यम्

पावीरवीशोधयित्री कन्याकमनीया चित्रायुश्चित्रगमनाचित्रान्नावा वीरपत्नीवीरः प्रजापतिः पतिर्यस्यास्तादृशी यद्वा वीराणांपाल- यित्री एवंभूतासरस्वतीधियं अस्मदीयंकर्मयज्ञाख्यं धात् दधातु धारयतु ददातु वाशब्देनप्रतिपादितोह्यर्थोनुष्ठीयते अपिचग्नाभिर्देवपत्नी- भिः सजोषाः सहप्रीयमाणाः यद्वाग्नाः गायत्र्यादीनिच्छंदांसि छन्दांसिवैग्नाइतिश्रुतेः । तैः सहप्रीयमाणाः गृणते स्तुवते मह्यंअच्छिद्रंछि- द्ररहितंदुराधर्षं शत्रुभिः शीतवातादिभिश्चधर्षितुमशक्यं शरणंगृहं शर्मसुखंचयंसत् प्रयच्छतु ॥ ७ ॥ एकादशिनेपौष्णेपशौपथस्प्थइतिहविषोयाज्या सूत्रितंच—पथस्पथःपरिपतिंवचस्याबृहस्पतेयापरमापरावादतिद्वेइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः