मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४९, ऋक् ८

संहिता

प॒थस्प॑थ॒ः परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नळ॒र्कम् ।
स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑धियं सीषधाति॒ प्र पू॒षा ॥

पदपाठः

प॒थःऽप॑थः । परि॑ऽपतिम् । व॒च॒स्या । कामे॑न । कृ॒तः । अ॒भि । आ॒न॒ट् । अ॒र्कम् ।
सः । नः॒ । रा॒स॒त् । शु॒रुधः॑ । च॒न्द्रऽअ॑ग्राः । धिय॑म्ऽधियम् । सी॒स॒धा॒ति॒ । प्र । पू॒षा ॥

सायणभाष्यम्

पथस्पथः सर्वस्यमार्गस्यपरिपतिमधिपतिंअर्कमर्चनीयं पूषणं कामेनकाम्यमानेनफलेन कृतोवशीकृतः स्तोता वचस्यास्तुत्याअभ्यानट् अभ्यश्नुतां प्राप्नोतु सचपूषा नोस्मभ्यंशुरुधः शुचोरोधयित्रीर्गाः चन्द्राग्राः चन्द्रमितिहिरण्यनाम हिरण्यप्रमुखाः यद्वास्वर्णश्रृंगाः शसद्द- दातु रादानेअस्माल्लेटिरूपं तथाधियंधियंसर्वमस्मदीयंकर्म सपूषाप्रसीषधातिप्रसाधयतु ॥ ८ ॥ वाष्ट्रेपशौप्रथमभाजमितिहविषोयाज्या सूत्रितंच—प्रथमभाजंयशसंवयोधांसोमापूषणाजननारयीणामितिसूक्तमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः