मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४९, ऋक् ९

संहिता

प्र॒थ॒म॒भाजं॑ य॒शसं॑ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व॑म् ।
होता॑ यक्षद्यज॒तं प॒स्त्या॑नाम॒ग्निस्त्वष्टा॑रं सु॒हवं॑ वि॒भावा॑ ॥

पदपाठः

प्र॒थ॒म॒ऽभाज॑म् । य॒शस॑म् । व॒यः॒ऽधाम् । सु॒ऽपा॒णिम् । दे॒वम् । सु॒ऽगभ॑स्तिम् । ऋभ्व॑म् ।
होता॑ । य॒क्ष॒त् । य॒ज॒तम् । प॒स्त्या॑नाम् । अ॒ग्निः । त्वष्टा॑रम् । सु॒ऽहव॑म् । वि॒भाऽवा॑ ॥

सायणभाष्यम्

प्रथमभाजं प्रथमेउत्पत्तिकालएवविभक्तारंजंतूनां यावच्छोवैरेतसः सिक्तस्यत्वष्टारूपाणिविकरोतितावच्छोवैतत्प्रजायतइतिश्रुतेः । यशसंयशस्विनं वयोधांवयसोन्नस्यहविर्लक्षणस्यधातारं धारयितारं यद्वा स्तोतृभ्योन्नप्रदं सुपाणिंहस्तस्यमणिबंधादुर्ध्वप्रदेशः पाणिः शोभनपाणिकंदेवंदानादिगुणयुक्तंसुगभस्तिं गभस्तिरितिबाहुनाम शोभनदोर्दंडं ऋभ्वंउरुभासमानं महान्तंवापस्त्यानां पस्त्यमिति- गृहनाम तत्स्थानांयजतंयष्टव्यं गृहस्थैर्यजनीयमित्यर्थः सुहवंसुखेनह्वातुंशक्यं एवंभूतंत्वष्टारंहोतादेवानामाह्वाता विभावा दीप्यमा- नोग्निः यक्षत् यजत् अनेनहविषायजतु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः