मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४९, ऋक् १०

संहिता

भुव॑नस्य पि॒तरं॑ गी॒र्भिरा॒भी रु॒द्रं दिवा॑ व॒र्धया॑ रु॒द्रम॒क्तौ ।
बृ॒हन्त॑मृ॒ष्वम॒जरं॑ सुषु॒म्नमृध॑ग्घुवेम क॒विने॑षि॒तासः॑ ॥

पदपाठः

भुव॑नस्य । पि॒तर॑म् । गीः॒ऽभिः । आ॒भिः । रु॒द्रम् । दिवा॑ । व॒र्धय॑ । रु॒द्रम् । अ॒क्तौ ।
बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । सु॒ऽसु॒म्नम् । ऋध॑क् । हु॒वे॒म॒ । क॒विना॑ । इ॒षि॒तासः॑ ॥

सायणभाष्यम्

भुवनस्यभूतजातस्यपितरंपालयितारंरुद्रं रुद्दुःखंतद्द्रावयितारमीश्वरं आभिर्गीर्भिःस्तुतिभिः दिवाअहनिहेस्तोतर्वर्धय अक्तौरात्र्यां- चतमेवरुद्रंस्तुतिभिर्वर्धय वयंचकविनाप्राज्ञेनरुद्रेणइषितासःप्रेषिताःप्रेरिताःसन्तः बृहन्तंमहान्तंऋष्वंदर्शनीयमजरंजरारहितं सुषुम्नंशो- भनसुखं एवंगुणविशिष्टंरुद्रंऋधक् ऋद्धंसमृद्धंयथाभवतितथाहुवेम स्तवाम ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः