मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४९, ऋक् १३

संहिता

यो रजां॑सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ ।
तस्य॑ ते॒ शर्म॑न्नुपद॒द्यमा॑ने रा॒या म॑देम त॒न्वा॒३॒॑ तना॑ च ॥

पदपाठः

यः । रजां॑सि । वि॒ऽम॒मे । पार्थि॑वानि । त्रिः । चि॒त् । विष्णुः॑ । मन॑वे । बा॒धि॒ताय॑ ।
तस्य॑ । ते॒ । शर्म॑न् । उ॒प॒ऽद॒द्यमा॑ने । रा॒या । म॒दे॒म॒ । त॒न्वा॑ । तना॑ । च॒ ॥

सायणभाष्यम्

योविष्णुः बाधितायअसुरौर्हिंसिताय मनवेप्रजापतये तदर्थंपार्थिवानिपृथिव्यासंबद्धानि रजांसिलोकान् त्रीन् लोकानितियावत् त्रि- श्चित् विममे चिदित्यवधारणे त्रिभिरेवविक्रमणैः परिमितवान् हेविष्णो तस्यतादृशस्यतेतव तृतीयार्थेषष्ठी ईदृशेनत्वयाउपदद्यमाने अस्मभ्यंदीयमाने शर्मन् शर्मणिगृहेसुखेवावर्तमानाः सन्तोवयं रायाधनेनतन्वारोगादिरहितेनशरीरेणच तनातनयेनपुत्रेणच मदेम मोदेम हृष्टाभवेम ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः