मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४९, ऋक् १४

संहिता

तन्नोऽहि॑र्बु॒ध्न्यो॑ अ॒द्भिर॒र्कैस्तत्पर्व॑त॒स्तत्स॑वि॒ता चनो॑ धात् ।
तदोष॑धीभिर॒भि रा॑ति॒षाचो॒ भग॒ः पुरं॑धिर्जिन्वतु॒ प्र रा॒ये ॥

पदपाठः

तत् । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । अ॒त्ऽभिः । अ॒र्कैः । तत् । पर्व॑तः । तत् । स॒वि॒ता । चनः॑ । धा॒त् ।
तत् । ओष॑धीभिः । अ॒भि । रा॒ति॒ऽसाचः॑ । भगः॑ । पुर॑म्ऽधिः । जि॒न्व॒तु॒ । प्र । रा॒ये ॥

सायणभाष्यम्

बुध्न्यःबुध्नमंतरिक्षंतत्रभवः अहिः एत्यन्तरिक्षइत्यहिः उक्तंच—अहिरयनादेत्यंतरिक्षइति । एतत्पदद्वयाभिधेयोदेवःअर्कैःअर्चनसाधनै- र्मंत्रैः स्तूयमानः सननोस्मभ्यंतत् लोकेप्रसिद्धंचनोन्नं अद्भिः उदकैः सार्धंधात् दधातु विदधातु प्रयच्छतु पर्वतःपूरयिता पर्वपूरणेइतिधातुः यद्वा पर्ववत् वज्रंपर्वतः तद्वान् पर्वतस्यगिरेः शत्रुरितिवापर्वतः सचतच्चनोदधातु तथासविताप्रेरकोदेवश्चतच्चनोदधातु अपिचरातिपाचः रानिंदानंसचन्तेसेवन्तइतिरातिषाचोविश्वेदेवाः तेचओषधीभिः ओषःपाकःआसुधीयतइतिओषधयस्तिलमाषाद्याः ताभिःसार्धंतदन्नम- भिप्रयच्छन्तु तथापुरन्धिर्बहुधीः बहुप्रज्ञोवाबहुकर्मावाभगोभजनीयएतत्संज्ञोदेवश्चरायेधनार्थं प्रजिन्वतु अस्मान्प्रेरयतु ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः