मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४९, ऋक् १५

संहिता

नु नो॑ र॒यिं र॒थ्यं॑ चर्षणि॒प्रां पु॑रु॒वीरं॑ म॒ह ऋ॒तस्य॑ गो॒पाम् ।
क्षयं॑ दाता॒जरं॒ येन॒ जना॒न्त्स्पृधो॒ अदे॑वीर॒भि च॒ क्रमा॑म॒ विश॒ आदे॑वीर॒भ्य१॒॑श्नवा॑म ॥

पदपाठः

नु । नः॒ । र॒यिम् । र॒थ्य॑म् । च॒र्ष॒णि॒ऽप्राम् । पु॒रु॒ऽवीर॑म् । म॒हः । ऋ॒तस्य॑ । गो॒पाम् ।
क्षय॑म् । दा॒त॒ । अ॒जर॑म् । येन॑ । जना॑न् । स्पृधः॑ । अदे॑वीः । अ॒भि । च॒ । क्रमा॑म । विशः॑ । आऽदे॑वीः । अ॒भि । अ॒श्नवा॑म ॥

सायणभाष्यम्

हेसर्वेदेवाः नोस्मभ्यंनुक्षिप्रंरयिंधनंक्षयंगृहंच दात प्रयच्छत कीदृशंरयिं रथ्यंरथसंबन्धिनंरथयुक्तमित्यर्थः चर्षणिप्रां चर्षणयोमनुष्या- स्तोषांपूरयितारं पुरुवीरं वीर्याज्जायन्तइतिवीराः पुत्रादयः बहुभिः वीरैरुपेतं महोमहतः ऋतस्ययज्ञस्यगोपांरक्षकंदक्षिणारूपेणधनेनहि- यज्ञोरक्ष्यते मृतोयज्ञस्त्वदक्षिणइतिवचनात् कीदृशंक्षयं अजरंजरारहितं येनरयिणाक्षयेणचजनान् शत्रून् स्पृधः स्पर्धमानाः अदेवीः अदेव- संबन्धिनीरासुरीःसेनाश्च अभिक्रमाम अभिभवेम तथाआदेवीःआगतादेवायासुहविः स्वीकारार्थं ताआदेव्यः तादृशीश्चविशःप्रजाःयज्ञानु- ष्ठायिनीः येनधनेनगृहेण चअभ्यश्नवाम अभिप्राप्नवाम तादृशंधनंगृहंचदातेत्यन्वयः ॥ १५ ॥

पंचमेनुवाकेद्वादशसूक्तानि तत्रहुवेवइतिपंचदशर्चंप्रथमंसूक्तं ऋजिश्वनआर्षं बहुदेवताकं त्रैष्टुभं हुवेवइत्यनुक्रान्तं गतः सूक्तविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः