मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५०, ऋक् १

संहिता

हु॒वे वो॑ दे॒वीमदि॑तिं॒ नमो॑भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम् ।
अ॒भि॒क्ष॒दाम॑र्य॒मणं॑ सु॒शेवं॑ त्रा॒तॄन्दे॒वान्त्स॑वि॒तारं॒ भगं॑ च ॥

पदपाठः

हु॒वे । वः॒ । दे॒वीम् । अदि॑तिम् । नमः॑ऽभिः । मृ॒ळी॒काय॑ । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् ।
अ॒भि॒ऽक्ष॒दाम् । अ॒र्य॒मण॑म् । सु॒ऽशेव॑म् । त्रा॒तॄन् । दे॒वान् । स॒वि॒तार॑म् । भग॑म् । च॒ ॥

सायणभाष्यम्

हेदेवाः वोयुष्माकंमातरंदेवींद्योतमानां अदितिंअखंडनीयां अदीनांवा एतत्संज्ञांदेवतांमृळीकायसुखार्थंनमोभिः नमस्कारैः स्तोत्रैर्वाहु- वे ह्वयामि स्तौमि तथावरुणंवारकं मित्रंप्रमीतेस्त्रायकं देवं अग्निंचएतांश्चदेवान् नमोभिर्हुवेतथाअभिक्षदां क्षदिर्हिंसाकर्मा अभिक्षत्तारं शत्रूणां हिंसितारं सुशेवं सुसुखंअर्यमणंचनमोभिर्हुवे सवितारंभगंचनमोभीर्हुवे किंबहुना त्रातॄन् पालयितॄन् सर्वान् देवान् नमोभिः स्तोत्रै- र्हुवेस्तौमि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः