उ॒त द्या॑वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो॑दसी शर॒णं सु॑षुम्ने ।
म॒हस्क॑रथो॒ वरि॑वो॒ यथा॑ नो॒ऽस्मे क्षया॑य धिषणे अने॒हः ॥
उ॒त । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । क्ष॒त्रम् । उ॒रु । बृ॒हत् । रो॒द॒सी॒ इति॑ । श॒र॒णम् । सु॒सु॒म्ने॒ इति॑ सुऽसुम्ने ।
म॒हः । क॒र॒थः॒ । वरि॑वः । यथा॑ । नः॒ । अ॒स्मे इति॑ । क्षया॑य । धि॒ष॒णे॒ इति॑ । अ॒ने॒हः ॥
उतापिच हेद्यावापृथिवी द्यावापृथिव्यौ उरुविस्तीर्णंक्षत्रंबलंकरथः कुरुतं तथारोदसीद्यावापृथिव्यौ सुषुम्ने सुसुखे युवांबृहन्महच्छर- णंगृहंचकरथः कुरुतं महोमहत् वरिवोधनंनोस्माकंयथस्यात् तथाकुरुतमित्यर्थः अपिच हेधिषणे धारयित्र्यौ द्यावापृथिव्यौ अनेहःपापरा- हित्यंचअस्मेअस्माकंक्षयायनिवासार्थंकुरुतं ॥ ३ ॥