मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५०, ऋक् ४

संहिता

आ नो॑ रु॒द्रस्य॑ सू॒नवो॑ नमन्ताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः ।
यदी॒मर्भे॑ मह॒ति वा॑ हि॒तासो॑ बा॒धे म॒रुतो॒ अह्वा॑म दे॒वान् ॥

पदपाठः

आ । नः॒ । रु॒द्रस्य॑ । सू॒नवः॑ । न॒म॒न्ता॒म् । अ॒द्य । हू॒तासः॑ । वस॑वः । अधृ॑ष्टाः ।
यत् । ई॒म् । अर्भे॑ । म॒ह॒ति । वा॒ । हि॒तासः॑ । बा॒धे । म॒रुतः॑ । अह्वा॑म । दे॒वान् ॥

सायणभाष्यम्

रुद्रस्यसूनवः पुत्रामरुतः अद्यास्मिन्कालेआहूतासः आहूताःसन्तः नोस्मान् प्रतिआनमन्तां आनताभवन्तु आगच्छन्तु कीदृशाः वसवो- वासयितारः अधृष्टाः अन्यैरहिंसिताः यद्यदाईमेनान्मरुतोदेवान अर्भेअल्पेमहतिप्रभूतेवाबाधेसंग्रामे हितासोनिहिताःस्थिताः सन्तोवयं अह्वाम आह्वयाम तदानीमद्येत्यन्वयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः