मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५०, ऋक् ६

संहिता

अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेन्द्रं॒ ब्रह्म॑णा जरित॒र्नवे॑न ।
श्रव॒दिद्धव॒मुप॑ च॒ स्तवा॑नो॒ रास॒द्वाजाँ॒ उप॑ म॒हो गृ॑णा॒नः ॥

पदपाठः

अ॒भि । त्यम् । वी॒रम् । गिर्व॑णसम् । अ॒र्च॒ । इन्द्र॑म् । ब्रह्म॑णा । ज॒रि॒तः॒ । नवे॑न ।
श्रव॑त् । इत् । हव॑म् । उप॑ । च॒ । स्तवा॑नः । रास॑त् । वाजा॑न् । उप॑ । म॒हः । गृ॒णा॒नः ॥

सायणभाष्यम्

हेजरितःस्तोतः त्यंतंप्रसिद्धंवीरंवीर्यवन्तंविशेषेणशत्रूणामीरकंवा गिर्वणसंगिरांसभक्तारं एवंविधमिन्द्रंनवेनाभिनवेनशोभनेनब्रह्म- णास्तोत्रेण अभ्यर्चअभिष्टुहि सचस्तवा स्तूयमानः सन् हवमस्मदीयंस्तोत्रंउपश्रवदित् उपश्रृणुयादेव अपिच गृणानःस्तूयमानइन्द्रः महो- महतः प्रभूतान् वाजान् अन्नानिचउपरासत् प्रदेयात् यतएवं अतः रतुहीत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः