मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५०, ऋक् ७

संहिता

ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः ।
यू॒यं हि ष्ठा भि॒षजो॑ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ॥

पदपाठः

ओ॒मान॑म् । आ॒पः॒ । मा॒नु॒षीः॒ । अमृ॑क्तम् । धात॑ । तो॒काय॑ । तन॑याय । शम् । योः ।
यू॒यम् । हि । स्थ । भि॒षजः॑ । मा॒तृऽत॑माः । विश्व॑स्य । स्था॒तुः । जग॑तः । जनि॑त्रीः ॥

सायणभाष्यम्

हेआपः मानुषीर्मनुष्यहितायूयंअमृक्तमहिंसितं ओमानंअवतिरक्षतीत्योमारक्षकमन्नंतोकायपुत्रायतनयायतत्पुत्रायचधात धत्त प्रय- च्छत तथाशंशमनमुपद्रवाणांयोर्यावनंपृथक्करणंच पृथक्कर्तव्यानांधत्त प्रयच्छत कुतइत्यतआह—हियस्माद्यूयंमातृतमाः मातृभ्योप्यधिका- भिषजः स्थाभवथ तस्माद्धातेत्यन्वयः कथं मातृभ्योप्यधिकंभैषज्यमस्तीत्यतआह—विश्वस्यसर्वस्य स्थातुः स्थावरस्यजगतोजंगमत्यज- नित्रीर्जनयित्र्योभवथ अतोयूयंभिषजःस्थ ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः