मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५०, ऋक् ८

संहिता

आ नो॑ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर॑ण्यपाणिर्यज॒तो ज॑गम्यात् ।
यो दत्र॑वाँ उ॒षसो॒ न प्रती॑कं व्यूर्णु॒ते दा॒शुषे॒ वार्या॑णि ॥

पदपाठः

आ । नः॒ । दे॒वः । स॒वि॒ता । त्राय॑माणः । हिर॑ण्यऽपाणिः । य॒ज॒तः । ज॒ग॒म्या॒त् ।
यः । दत्र॑ऽवान् । उ॒षसः॑ । न । प्रती॑कम् । वि॒ऽऊ॒र्णु॒ते । दा॒शुषे॑ । वार्या॑णि ॥

सायणभाष्यम्

त्रायमाणोरक्षन् हिरण्यपाणीः सुवर्णहस्तः हितरमणीयपाणिर्वा यजतोयष्टव्यः एवंभूतः सविताप्रेरकोदेवः नःअस्मान् आजगम्यादा- गच्छतु योदेवः दत्रवान् धनवान् उषसोनप्रतीकं उषसः प्रमुखमिव दाशुषेहवींषिदत्तवतेयजमानाय वार्याणि वरणीयानिधनानिव्यूर्णुते विवृणोति प्रकाशयति ससवितेत्यन्वयः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः