मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५०, ऋक् १०

संहिता

उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वम॒ङ्ग वि॑प्रा ।
अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके॑ ॥

पदपाठः

उ॒त । त्या । मे॒ । हव॑म् । आ । ज॒ग्म्या॒त॒म् । नास॑त्या । धी॒भिः । यु॒वम् । अ॒ङ्ग । वि॒प्रा॒ ।
अत्रि॑म् । न । म॒हः । तम॑सः । अ॒मु॒मु॒क्त॒म् । तूर्व॑तम् । न॒रा॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ॥

सायणभाष्यम्

उतअपिच हेविप्रा प्राज्ञौ नासत्या सत्यस्वभावौ सत्यस्यनेतारौवा हे अश्विनौ त्यातौप्रसिद्धौयुवंयुवांधीभिः परिचरणकैः कर्मभिरुपेतं मेमदीयंहवंस्तोत्रंअंग क्षिप्रं आजग्म्यातं आगच्छतं आगत्यच महोमहतस्तमसःअसुरकृतादंधकारात् अत्रिंन यथात्रिमृषिंअमुमुक्तं मोचित- वन्तौस्थः हेनरानेतारावश्विनौ तथास्मानपिअभीकेअभ्यक्ते प्राप्तेसंग्रामेदुरिताद्दुः खातशत्रुकृतात् र्वतंअस्मांस्तारयतं ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः