मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५०, ऋक् ११

संहिता

ते नो॑ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो॑ भूत नृ॒वतः॑ पुरु॒क्षोः ।
द॒श॒स्यन्तो॑ दि॒व्याः पार्थि॑वासो॒ गोजा॑ता॒ अप्या॑ मृ॒ळता॑ च देवाः ॥

पदपाठः

ते । नः॒ । रा॒यः । द्यु॒ऽमतः॑ । वाज॑ऽवतः । दा॒तारः॑ । भू॒त॒ । नृ॒ऽवतः॑ । पु॒रु॒ऽक्षोः ।
द॒श॒स्यन्तः॑ । दि॒व्याः । पार्थि॑वासः । गोऽजा॑ताः । अप्याः॑ । मृ॒ळत॑ । च॒ । दे॒वाः॒ ॥

सायणभाष्यम्

हेदेवास्तेयूयंद्युमतोदीप्तिमतः वाजवतोबलयुक्तस्यनृवतः नृभिः पुत्रादिभिरुपेतस्य पुरुक्षोःबहुभिःकीर्तनीयस्य रायोधनस्यनोस्मभ्यं- दातारोभूतभवत अपिच दशस्यन्तः कामान् प्रयच्छन्तः दिव्याः दिविभवाआदित्याः पार्थिवासः पृथिव्यांभवावसवः गोजाताः गौः पृश्नि- र्माध्यमिकावाक् ततः उत्पन्नामरुतः अप्याः अप्सुअन्तरिक्षेभवाः रुद्राश्च तेसर्वेयूयंअस्मान्मृळ्त सुखयत ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०