मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५०, ऋक् १२

संहिता

ते नो॑ रु॒द्रः सर॑स्वती स॒जोषा॑ मी॒ळ्हुष्म॑न्तो॒ विष्णु॑र्मृळन्तु वा॒युः ।
ऋ॒भु॒क्षा वाजो॒ दैव्यो॑ विधा॒ता प॒र्जन्या॒वाता॑ पिप्यता॒मिषं॑ नः ॥

पदपाठः

ते । नः॒ । रु॒द्रः । सर॑स्वती । स॒ऽजोषाः॑ । मी॒ळ्हुष्म॑न्तः । विष्णुः॑ । मृ॒ळ॒न्तु॒ । वा॒युः ।
ऋ॒भु॒क्षाः । वाजः॑ । दैव्यः॑ । वि॒ऽधा॒ता । प॒र्जन्या॒वाता॑ । पि॒प्य॒ता॒म् । इष॑म् । नः॒ ॥

सायणभाष्यम्

मीह्ळुष्मन्तोवर्षणवन्तः तेदेवाः नोस्मान् मृळन्तुमृळयन्तुसुखयन्तु केतेइतिचेदुच्यते—रुद्रःसरस्वतीचसजोषाः सहप्रीयमाणाःविष्णु- र्वायुश्चऋभुक्षाः ऋभुर्विभ्वावाजइतित्रयः सौधन्वनाः तेषामाद्यः ऋभुश्चवाजोन्तिमश्चउपलक्शणमेतत् विश्वाचदैव्योदेवेभ्योहितः विधा- ताप्रजापतिश्च अपिचपर्जन्यावातापर्जन्यश्चवायुश्चउभौ नोस्मभ्यमिषमन्नंपिप्यतांवर्धयतां ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०