मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५०, ऋक् १३

संहिता

उ॒त स्य दे॒वः स॑वि॒ता भगो॑ नो॒ऽपां नपा॑दवतु॒ दानु॒ पप्रि॑ः ।
त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभि॑ः पृथि॒वी स॑मु॒द्रैः ॥

पदपाठः

उ॒त । स्यः । दे॒वः । स॒वि॒ता । भगः॑ । नः॒ । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । दानु॑ । पप्रिः॑ ।
त्वष्टा॑ । दे॒वेभिः॑ । जनि॑ऽभिः । स॒ऽजोषाः॑ । द्यौः । दे॒वेभिः॑ । पृ॒थि॒वी । स॒मु॒द्रैः ॥

सायणभाष्यम्

उतापिच स्यः सः यः प्रेरकतयासर्वत्रप्रख्यातः ससवितादेवः भगश्चअपांनपाच्चअपांमेघस्थानांपुत्रोमाध्यमिकोग्निः सचनोस्मान् रक्षतु कीदृशोपांनपात् दानु दातव्यंधनंपप्रिः प्रातापूरयिता प्रापूरणइत्यस्मादादृगमहनइतिकिनोलिड्ढद्भावान्नलोकाव्ययेतिषष्ठीप्रतिषेधः तथा- देवेभिर्देवैः जनिभिस्तत्पत्नीभिश्चसजोषाः सहप्रीतिस्त्वष्टाचदेवेभिर्देवैः सहप्रीयमाणा द्यौश्चसमुद्रैः सहप्रीयमाणा पृथिवीचएताश्चसर्वादे- वताअस्मानवन्तु ॥ १३ ॥ आग्निमारुतेउतनोहिरित्येषा सूत्रितंच—उतनोहिर्बुध्न्यः श्रृणोतुदेवानांपत्नीरुशतीरवन्तुनइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०