मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५०, ऋक् १४

संहिता

उ॒त नोऽहि॑र्बु॒ध्न्य॑ः शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः ।
विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒नाः स्तु॒ता मन्त्रा॑ः कविश॒स्ता अ॑वन्तु ॥

पदपाठः

उ॒त । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । शृ॒णो॒तु॒ । अ॒जः । एक॑ऽपात् । पृ॒थि॒वी । स॒मु॒द्रः ।
विश्वे॑ । दे॒वाः । ऋ॒त॒ऽवृधः॑ । हु॒वा॒नाः । स्तु॒ताः । मन्त्राः॑ । क॒वि॒ऽश॒स्ताः । अ॒व॒न्तु॒ ॥

सायणभाष्यम्

उतपिचअहिर्बुध्न्योनोस्माकंस्तोत्रंश्रृणोतु अजोजन्मरहितः एकः असहायएवपद्यतेगच्छतीत्येकपात् एतत्पद्वयाभिधेयोदेव श्चपृथिवी- समुद्रश्चअस्मदीयंस्तोत्रंश्रृणोतु अपिच ऋतावृधः ऋतस्ययज्ञस्यसत्यस्यवावर्धयितारः हुवानाः अस्माभिराहूयमानाः पूर्वैः ऋषिभिश्च- स्तोत्रैः स्तुताः मंत्राः मंत्रणीयाः गुप्तंभाषितव्याः मंत्रप्रतिपाद्यावा कविशस्ताः कविभिर्मेधाविभिरृषिभिः शस्त्रैः शंसिताईदृशाःविश्वेदेवाः अचन्त्वस्मान् रक्षन्तु ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०