मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५०, ऋक् १५

संहिता

ए॒वा नपा॑तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा॑जा अ॒भ्य॑र्चन्त्य॒र्कैः ।
ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे॑ स्तु॒तासो॑ भूता यजत्राः ॥

पदपाठः

ए॒व । नपा॑तः । मम॑ । तस्य॑ । धी॒भिः । भ॒रत्ऽवा॑जाः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
ग्नाः । हु॒तासः॑ । वस॑वः । अधृ॑ष्टाः । विश्वे॑ । स्तु॒तासः॑ । भू॒त॒ । य॒ज॒त्राः॒ ॥

सायणभाष्यम्

एवएवं योहंदेवान्स्तुतवान् तस्यममऋजिश्वनोनपातः पुत्राः भरद्वाजाः भरद्वाजगोत्रजाः सुहोत्रादयः धीभीः स्तोत्रैरर्कैरर्चन्साधनैर- भ्यर्चन्ति अभिष्टुवन्ति हेयजत्राः यष्टव्यादेवाहुतासः पुरोडाशादिभिर्हविर्भिर्हुताःतर्पिताः वस्वोनिवासयितारः अधृष्टाः कैरप्यहिंसिताः एवंभूताः विश्वेतेसर्वेयूयंग्नाः देवपत्न्यश्च स्तुतासोभूत तैःसुहोत्रादिभिः स्तुताभवत ॥ १५ ॥

उदुत्यदितिषोडशर्चंद्वितीयंसूक्तंऋजिश्वनआर्षंवैश्वदेवं त्रयोदश्याद्यास्तिस्रउष्णिहः षोळश्यनुष्टुप् शिष्टास्त्रिष्टुभः तथाचानुक्रान्तं— उदुत्यत्षोळशत्र्युष्णिगनुष्टुबन्तमिति । गतः सूक्तविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०