मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् १

संहिता

उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम् ।
ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी॑कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ॥

पदपाठः

उत् । ऊं॒ इति॑ । त्यत् । चक्षुः॑ । महि॑ । मि॒त्रयोः॑ । आ । एति॑ । प्रि॒यम् । वरु॑णयोः । अद॑ब्धम् ।
ऋ॒तस्य॑ । शुचि॑ । द॒र्श॒तम् । अनी॑कम् । रु॒क्मः । न । दि॒वः । उत्ऽइ॑ता । वि । अ॒द्यौ॒त् ॥

सायणभाष्यम्

त्यत् तत् प्रसिद्धंचक्षुः प्रकाशकंमहिमहद्विस्तृतंमित्रयोर्वरुणयोः प्रियं मित्रशब्दोवरुणशब्दश्चेतरेतरयोगान्मित्रावरुणावुभावप्याचष्टे- मित्रावरुणयोरतिप्रियं अदब्धंरक्षोभिरहिंसितं शुचिशुद्धं निर्मलं दर्शतंदर्शनीयं एवं भूतंऋतस्यादित्यस्यअनीकंतेजः आसर्वेषामभिमुखं उदेति उद्गच्छति उदिताउदितौसूर्यस्योदयेसतिउदितंतत्तेजः दिवोन्तरिक्षस्यरुक्मोन भूषणमिवव्यद्यौत् विद्योततेप्रकाशते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११