मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् २

संहिता

वेद॒ यस्त्रीणि॑ वि॒दथा॑न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्र॑ः ।
ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न्न॒भि च॑ष्टे॒ सूरो॑ अ॒र्य एवा॑न् ॥

पदपाठः

वेद॑ । यः । त्रीणि॑ । वि॒दथा॑नि । ए॒षा॒म् । दे॒वाना॑म् । जन्म॑ । स॒नु॒तः । आ । च॒ । विप्रः॑ ।
ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् । अ॒भि । च॒ष्टे॒ । सूरः॑ । अ॒र्यः । एवा॑न् ॥

सायणभाष्यम्

यःसूर्यः त्रीणित्रिसंख्यानि विदथानिवेदितव्यानिस्थानानि त्रिन्लोकान् वेदवेत्तिजानाति एषांएतत् लोकत्रयवर्तिनांदेद्वानांवसुरुद्रादि- त्यात्मकानां सनुतरंतर्हितनामैतत् अन्तर्हितं अप्रज्ञायमानं जन्मजननंचयोविप्रोमेधावीसूर्योवेत्ति आकारः पूरकः ससूरः सूर्यः मर्तेषुमनु- ष्येषुविद्यामानानिऋजुऋजूनिशोभनानिकर्मणिवृजिनावृजिनानिअशोभनानिकर्मणिच पश्यन् साक्षितयाजानन् आभिचष्टे अभितः सर्वें जगत्प्रकाशयति तथाअर्यः स्वामी भूत्वाएवान् प्राप्तव्यान् कामांश्चमनुष्येषुप्रकाशयति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११