मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् ३

संहिता

स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् ।
अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा॑ वोचे सध॒न्य॑ः पाव॒कान् ॥

पदपाठः

स्तु॒षे । ऊं॒ इति॑ । वः॒ । म॒हः । ऋ॒तस्य॑ । गो॒पान् । अदि॑तिम् । मि॒त्रम् । वरु॑णम् । सु॒ऽजा॒तान् ।
अ॒र्य॒मण॑म् । भग॑म् । अद॑ब्धऽधीतीन् । अच्छ॑ । वो॒चे॒ । स॒ऽध॒न्यः॑ । पा॒व॒कान् ॥

सायणभाष्यम्

हेदेवाः महोमहतऋतस्ययज्ञस्यगोपान् रक्षकान् वोयुष्मान् स्तुषेस्तुवे उइतिपूरणः तानेवदेवानाह—अदितिमदीनांदेवमातरंमित्रंव- रुणंचएतान् सुजातान् शोभनजननान् अर्यमणंभगंचअदब्धधीत् अहिंसितकर्मणः सधन्यः धनसहितान् पावकान् विशस्यशोधकान् ईदृ- शान् सर्वान् देवान् अच्छवोचे अभिप्रब्रवीमीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११