मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् ४

संहिता

रि॒शाद॑स॒ः सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञ॑ः सुवस॒नस्य॑ दा॒तॄन् ।
यूनः॑ सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना॑दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ॥

पदपाठः

रि॒शाद॑सः । सत्ऽप॑तीन् । अद॑ब्धान् । म॒हः । राज्ञः॑ । सु॒ऽव॒स॒नस्य॑ । दा॒तॄन् ।
यूनः॑ । सु॒ऽक्ष॒त्रान् । क्षय॑तः । दि॒वः । नॄन् । आ॒दि॒त्यान् । या॒मि॒ । अदि॑तिम् । दु॒वः॒ऽयु ॥

सायणभाष्यम्

रिशादसः रिशतांहिंसकानांअसितॄन् क्षेतॄन् यद्वा रिशानांहिंसकानांअतॄन् भक्षयितॄन् सत्पतीन् सतांपालयितॄन् अदब्धानहिंसितान् महोमहतः राज्ञोराजमानान् ईश्वरान्वासुवसनस्य शोभननिवासस्यदातॄन् यूनोनित्यतरुणान् सुक्षत्रान् शोभनधनान् शोभनबलान् वा क्षयतःसर्वत्र निवसतः यद्वा क्षयतिरैश्वर्यकर्मा ईशानान् दिवोद्युलोकस्यनॄन् नेतॄन् आदित्यान् अदितेः पुत्रान् ईदृशान् सर्वान् देवान् दुवोयु लुप्तविभक्तिकमेतत् दुवोयुंदुवोस्मदीयंपरिचरणंकामयमानांअदितिंदेवमातरंच यामि प्राप्नोमि यद्वा यामियाचामि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११