मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् ५

संहिता

द्यौ॒३॒॑ष्पित॒ः पृथि॑वि॒ मात॒रध्रु॒गग्ने॑ भ्रातर्वसवो मृ॒ळता॑ नः ।
विश्व॑ आदित्या अदिते स॒जोषा॑ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्त ॥

पदपाठः

द्यौः॑ । पित॒रिति॑ । पृथि॑वि । मातः॑ । अध्रु॑क् । अग्ने॑ । भ्रा॒तः॒ । व॒स॒वः॒ । मृ॒ळत॑ । नः॒ ।
विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । स॒ऽजोषाः॑ । अ॒स्मभ्य॑म् । शर्म॑ । ब॒हु॒लम् । वि । य॒न्त॒ ॥

सायणभाष्यम्

हेपितः पितृस्थानीयद्यौः द्युलोकहेमातः मातृस्थानीयेअध्रुगद्रोग्धि पृथिवि हेभ्रातः भ्रातृस्थानीयाग्ने हेवसवोवासयितारोदेवाः तेसर्वे- यूयंनोस्मान् मृळतसुखयत हेविश्वआदित्याः सर्वेअदितिपुत्रादेवाः हेअदिते यूयंसजोषाः संगताभूत्वाअस्मभ्यंबहुलंअधिकंशर्मसुखं विस्तृ- तंवागृहंवियन्तप्रयच्छत ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११