मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् ७

संहिता

मा व॒ एनो॑ अ॒न्यकृ॑तं भुजेम॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे ।
विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं॑ रीरिषीष्ट ॥

पदपाठः

मा । वः॒ । एनः॑ । अ॒न्यऽकृ॑तम् । भु॒जे॒म॒ । मा । तत् । क॒र्म॒ । व॒स॒वः॒ । यत् । चय॑ध्वे ।
विश्व॑स्य । हि । क्षय॑थ । वि॒श्व॒ऽदे॒वाः॒ । स्व॒यम् । रि॒पुः । त॒न्व॑म् । रि॒रि॒षी॒ष्ट॒ ॥

सायणभाष्यम्

हेदेवाः वोयुष्माकंस्वभूतावयंअन्यकृतंअन्यैःशत्रुभिः कृतमुत्पादितं एनःपापं माभुजेम माभुंक्ष्महि हेवसवोवासयितारोदेवाः यत् येनकृतेनपापेन चयध्वेअस्मान्बाधध्वे चयतिर्हिंसाकर्मा तच्चपापंमाकर्म माकार्ष्म करोतेर्माङिलुङिमंत्रेघसेतिच्लेर्लुक् हेविश्वेदेवाः सर्वेदेवाः विश्वस्यसर्वस्यजगतोयूयंहिक्षयथ ईश्वराभवथ अतःकारणात् अस्मदीयोरिपुःशत्रुः तन्वंस्वशरीरं स्वयमेवरिरिषीष्ट हिंस्यात् यथैवंभवतितथाकुरुतेतिभावः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२