मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् ८

संहिता

नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो॑ दाधार पृथि॒वीमु॒त द्याम् ।
नमो॑ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ॥

पदपाठः

नमः॑ । इत् । उ॒ग्रम् । नमः॑ । आ । वि॒वा॒से॒ । नमः॑ । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
नमः॑ । दे॒वेभ्यः॑ । नमः॑ । ई॒शे॒ । ए॒षा॒म् । कृ॒तम् । चि॒त् । एनः॑ । नम॑सा । आ । वि॒वा॒से॒ ॥

सायणभाष्यम्

आस्तांतावत् देवानांमाहात्म्यं तदीयोनमस्कारोपिंइत्थंमहाभागइतिब्रुवाणः कैमुतिकन्यायेनदेवान् स्तौति—नमइत् नमस्कारएवउ- ग्रमुद्गूर्णबलंसर्वोत्कृष्टंतेनहिसर्वंलभ्यते अतोनमःनमस्कारं आविवासे परिचरामि नमःनमस्कारएव पृथिवींउतद्यांद्युलोकंचदाधार धार- यति द्यावापृथिव्यौप्राणिभिर्नमस्कियमाणे सत्यौ तदुपभोगायचिरकालमवतिष्ठेते अतोदेवेभ्यईदृशंनमस्करोमि एषांदेवानांनमोनमस्का- रः ईशेईष्टे यतस्तेनतेवशीकृताः कृतंचित् कृतपिआचरितमप्येनः पापंनमसानमस्कारेणआविवासे विवासोवर्जनं वर्जयामि विनाशयामि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२