मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् ९

संहिता

ऋ॒तस्य॑ वो र॒थ्य॑ः पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒ अद॑ब्धान् ।
ताँ आ नमो॑भिरुरु॒चक्ष॑सो॒ नॄन्विश्वा॑न्व॒ आ न॑मे म॒हो य॑जत्राः ॥

पदपाठः

ऋ॒तस्य॑ । वः॒ । र॒थ्यः॑ । पू॒तऽद॑क्षान् । ऋ॒तस्य॑ । प॒स्त्य॒ऽसदः॑ । अद॑ब्धान् ।
तान् । आ । नमः॑ऽभिः । उ॒रु॒ऽचक्ष॑सः । नॄन् । विश्वा॑न् । वः॒ । आ । न॒मे॒ । म॒हः । य॒ज॒त्राः॒ ॥

सायणभाष्यम्

हेयजत्रायष्टव्यादेवाः वोयुष्मदीयस्यऋतस्ययज्ञस्यरथ्योरंहितॄन् नेतॄन् पूतदक्षान् शुद्धबलान् ऋतस्ययज्ञस्यपस्त्यसदः यज्ञंसंबन्धिनि- पस्त्येदेवय्जनलक्षणेगृहेसीदतोनिषण्णान् अदब्धान् रक्षः प्रभृतिभिरहिंसितान् उरुचक्षसोबहुद्रष्टॄन् नृन्नेतॄन् महोमहतःतान् विश्वान् सर्वा- न्वोयुष्मान् आआभिमुख्येन क्रियमणैर्नमोभिर्नमस्कारैः आनमे आनतोस्मि ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२