मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् १०

संहिता

ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा॑नि दुरि॒ता नय॑न्ति ।
सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निरृ॒तधी॑तयो वक्म॒राज॑सत्याः ॥

पदपाठः

ते । हि । श्रेष्ठ॑ऽवर्चसः । ते । ऊं॒ इति॑ । नः॒ । ति॒रः । विश्वा॑नि । दुः॒ऽइ॒ता । नय॑न्ति ।
सु॒ऽक्ष॒त्रासः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । ऋ॒तऽधी॑तयः । व॒क्म॒राज॑ऽसत्याः ॥

सायणभाष्यम्

येदेवाः वक्ष्यमाणगुणाः तेहितेखलु श्रेष्ठवर्चसः श्रेष्ठवर्चसः प्रशस्यतमदीप्तयोभवन्ति अतः तउतएवनोस्माकंविश्वानिसर्वाणिदुरितापा- पानि तिरः तिरोहितानियथाभवन्तितथानयन्ति नयन्तु विनाशयन्त्वित्यर्थः येवरुणादयोदेवाः सुक्षत्रासः शोभनबलाः शोभनधनावाऋ- तधीतयः सत्यकर्माणः वक्मराजसत्याः वक्मवचनंस्तोत्रं तस्यराजानःईशानावक्मराजानः स्तोतारः तेषुस्त्याः अवितथाः एवंभूतास्ते- हीत्यन्वयः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२