मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् ११

संहिता

ते न॒ इन्द्र॑ः पृथि॒वी क्षाम॑ वर्धन्पू॒षा भगो॒ अदि॑ति॒ः पञ्च॒ जना॑ः ।
सु॒शर्मा॑ण॒ः स्वव॑सः सुनी॒था भव॑न्तु नः सुत्रा॒त्रासः॑ सुगो॒पाः ॥

पदपाठः

ते । नः॒ । इन्द्रः॑ । पृ॒थि॒वी । क्षाम॑ । व॒र्ध॒न् । पू॒षा । भगः॑ । अदि॑तिः । पञ्च॑ । जनाः॑ ।
सु॒ऽशर्मा॑णः । सु॒ऽअव॑सः । सु॒ऽनी॒थाः । भव॑न्तु । नः॒ । सु॒ऽत्रा॒त्रासः॑ । सु॒ऽगो॒पाः ॥

सायणभाष्यम्

तेदेवानोस्माकंक्षामनिवासभूमिंवर्धन् वर्धयन्तु केते इन्द्रः पृथिवीच पूषाचभगश्च अदितिरदीनादेवमाताच पंचजनादेवमनुष्याणांगं- धर्वाप्सरसामित्यादिब्राह्मणोक्तादेवमनुष्यादयश्चते चनोस्मदर्थंसुशर्माणः सुसुखाः स्ववसः शोभनान्नाः सुनीथाः सुप्रापणाश्चभवन्तु अस्म- भ्यंशोभनसुखादिकंप्रयच्छन्त्वितिभावः तथासुत्रात्रासः सुष्ठुत्रातारः सुगोपाः शोभनगोपायितारश्चभववन्तु उपस्थितेभ्यः सत्रुभ्योरक्षणं- त्राणं तेषांउत्पत्तिनिरोधेन रक्षणंगोपनं ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३