मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् १४

संहिता

ग्रावा॑णः सोम नो॒ हि कं॑ सखित्व॒नाय॑ वाव॒शुः ।
ज॒ही न्य१॒॑त्रिणं॑ प॒णिं वृको॒ हि षः ॥

पदपाठः

ग्रावा॑णः । सो॒म॒ । नः॒ । हि । क॒म् । स॒खि॒ऽत्व॒नाय॑ । वा॒व॒शुः ।
ज॒हि । नि । अ॒त्रिण॑म् । प॒णिम् । वृकः॑ । हि । सः ॥

सायणभाष्यम्

हेसोम नोस्मदीयाइमेग्रावाणः अभिषवार्थाःपाषाणाः तवसखित्वनायसख्यार्थंवावशुः कामयन्ते कमितिपूरकः हियस्मादर्थे यस्मादे- वंतस्मात्त्वंपणिंवणिजमदातारं अत्रिणं अदनशीलं राक्षसादिकंनिजहि विनाशय सपणिर्वृकोहि आदानपरःखलुसर्वदास्मत्तोपहरणशीलः अतस्त्वंजहात्यर्थः वृकआदानइतिधातुः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३