मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् १५

संहिता

यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः ।
कर्ता॑ नो॒ अध्व॒न्ना सु॒गं गो॒पा अ॒मा ॥

पदपाठः

यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ । इन्द्र॑ऽज्येष्ठाः । अ॒भिऽद्य॑वः ।
कर्त॑ । नः॒ । अध्व॑न् । आ । सु॒ऽगम् । गो॒पाः । अ॒मा ॥

सायणभाष्यम्

हेसुदानवः शोभनदानादेवाः यूयंहिष्ठ यूयंखलुप्रभवथ समृद्धाःस्थ इन्द्रज्येष्ठाः इन्द्रःज्येष्ठःमुख्योयेषांते अभिद्यवःअभिगतदीप्तयः तेयूयं अध्वन् अध्वनिमार्गेनोस्माकं अमासहैवगोपाः गोपायितारोरक्षितारःसन्तः सुगंसुखं आकारः समुच्चये सुखंचये सुखंच कर्त कुरुत ॥ १५ ॥ प्रवासादागमनेअपिपंथामित्येषायजमानेनजप्या सूत्रितंच—अपिपंथामगन्महीतिप्रत्येत्यसमित्पाणिरिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३