मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५२, ऋक् १

संहिता

न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी॑भिरा॒भिः ।
उ॒ब्जन्तु॒ तं सु॒भ्व१॒॑ः पर्व॑तासो॒ नि ही॑यतामतिया॒जस्य॑ य॒ष्टा ॥

पदपाठः

न । तत् । दि॒वा । न । पृ॒थि॒व्या । अनु॑ । म॒न्ये॒ । न । य॒ज्ञेन॑ । न । उ॒त । शमी॑भिः । आ॒भिः ।
उ॒ब्जन्तु॑ । तम् । सु॒ऽभ्वः॑ । पर्व॑तासः । नि । ही॒य॒ता॒म् । अ॒ति॒ऽया॒जस्य॑ । य॒ष्टा ॥

सायणभाष्यम्

अतियाजोनामकश्चिदृषिरस्मादृजिश्वनः उत्कृष्टस्यामहमितिबुध्यादेवान्यियक्षुरासऋषिस्तदीयंयजनंनिराचष्टाद्यया नतदतियाजस्य- ऋषेःतद्यजनंदिवाद्युलोकेनतत्रत्येनदेवगणेनयुक्तमित्यहंनानुमन्ये नानुमतिंकरोमि नचपृथिव्यापार्थिवेनापिदेवगणेनयुक्तमितिनानुमन्ये नचयज्ञेनमयानुष्टितेनसदृशंतदित्यहंनानुमन्ये उतापिचआभिःशमीभिः अन्यैरपिमयाकृतैः एभिः कर्मभिः सदृशमित्यपिनानुमन्ये मयाव- शीकृतादेवास्तदीयंयजनंनांगीकुर्वन्तिसचानभिज्ञत्वात्सम्यग्यष्टुमपिनशक्नोतीतिभावः अपिचतमृषिं सुभ्वःसुष्ठुभवन्तः पर्वतासः पर्वताः इन्द्रेणप्रहिताः सन्तः उब्जन्तुहिंसन्तु उब्जिर्हिंसाकर्मा तथातस्यातियाजस्यऋजिश्वनोप्यतिशयेनाहंदवोन्यजामीतिबुध्यायुक्तस्यऋषेःयो- यष्टायाजकः सनिहीयतां नितरांहीनोभवतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४