मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५२, ऋक् २

संहिता

अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा॑णं॒ निनि॑त्सात् ।
तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो॑चतु॒ द्यौः ॥

पदपाठः

अति॑ । वा॒ । यः । म॒रु॒तः॒ । मन्य॑ते । नः॒ । ब्रह्म॑ । वा॒ । यः । क्रि॒यमा॑णम् । निनि॑त्सात् ।
तपूं॑षि । तस्मै॑ । वृ॒जि॒नानि॑ । स॒न्तु॒ । ब्र॒ह्म॒ऽद्विष॑म् । अ॒भि । तम् । शो॒च॒तु॒ । द्यौः ॥

सायणभाष्यम्

हेमरुतः यःपुरुषोनोस्मानतिमन्यतेअतीत्यस्वस्याधिक्यंमन्यतेअस्मत्तोपिस्वयमधिकइतिबुध्यतेअस्माभिःक्रियमाणंब्रह्मस्तोत्रंवायोनि- नित्सात् निन्दितुमिच्छेत् तस्मैपुरुषायतपूंषितेजांसिवृजिनानिबाधकानिसन्तुभवन्तुब्रह्मद्विषन्तंशत्रुंद्यौरादित्यश्चअभिशोचतुअभितपतु- अभिदहतु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४