मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५२, ऋक् ३

संहिता

किम॒ङ्ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किम॒ङ्ग त्वा॑हुरभिशस्ति॒पां नः॑ ।
किम॒ङ्ग नः॑ पश्यसि नि॒द्यमा॑नान्ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥

पदपाठः

किम् । अ॒ङ्ग । त्वा॒ । ब्रह्म॑णः । सो॒म॒ । गो॒पाम् । किम् । अ॒ङ्ग । त्वा॒ । आ॒हुः॒ । अ॒भि॒श॒स्ति॒ऽपाम् । नः॒ ।
किम् । अ॒ङ्ग । नः॒ । प॒श्य॒सि॒ । नि॒द्यमा॑नान् । ब्र॒ह्म॒ऽद्विषे॑ । तपु॑षिम् । हे॒तिम् । अ॒स्य॒ ॥

सायणभाष्यम्

किमंगेतिप्रसिद्धद्योतकौनिपातौ हेसोम त्वात्वांखलुब्रह्मणोमंत्रस्यकर्मणोवाब्रह्मजातेर्वागोपांगोपायितारं आहुः कथयन्तिपुराविदः त- थानोस्माकमभिशस्तिपां अभिशंसकेभ्यःपालयितारंत्वामेवखल्वाहुः यद्वाअंगेत्यभिमुखीकरणे अंग हेसोम किंकारणंत्वांब्रह्मणोगोपामाहुः किंकारणंत्वात्वांअस्माकमभिशस्तिपामाहुः निंद्यमानान्परैर्दूष्यमाणान् नोस्मान् अंगहेसोम किंकारणंपश्यसि त्वामेवसर्वेब्रह्मणोरक्षकंश- त्रुभ्यः पालकंचकथयन्ति अतोस्मासुपरैर्निन्द्यमानेषु औदासीन्यंतवानुचितं अतोब्रह्मद्विषेब्राह्मणद्वेष्ट्रेतस्मैतपुषिंतापकं हेतिमायुधंअस्यक्षि- पप्रेरय ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४