मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५२, ऋक् ४

संहिता

अव॑न्तु॒ मामु॒षसो॒ जाय॑माना॒ अव॑न्तु मा॒ सिन्ध॑व॒ः पिन्व॑मानाः ।
अव॑न्तु मा॒ पर्व॑तासो ध्रु॒वासोऽव॑न्तु मा पि॒तरो॑ दे॒वहू॑तौ ॥

पदपाठः

अव॑न्तु । माम् । उ॒षसः॑ । जाय॑मानाः । अव॑न्तु । मा॒ । सिन्ध॑वः । पिन्व॑मानाः ।
अव॑न्तु । मा॒ । पर्व॑तासः । ध्रु॒वासः॑ । अव॑न्तु । मा॒ । पि॒तरः॑ । दे॒वऽहू॑तौ ॥

सायणभाष्यम्

जायमानाःप्रादुर्भवन्त्यउषसः मांअवन्तु रक्षंतु तथापिन्वमानाः वर्धमानाः सिन्धवः स्यन्दनशीलानद्यश्च मामामवन्तु तथाध्रुवासोनि- श्चलाः पर्वतासः पर्वताश्च मामामवन्तु तथादेवहूतौदेवानांहूतिराह्वानमस्मिन्नितिदेवहूतिर्यागः तत्रविद्यमानाः पितरः पितृदेवताश्चमा- मामवन्तु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४